|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.1. अध्यायः 001
कुरुक्षेत्रे कुरुपाण्डवसेनयोः परस्परसमागमः|| १|| उभयपक्षीयैः परस्परं समयकरणं ||२|| श्रीवेदव्यासाय नमः नारायणं नमस्कृत्य नरं नरोत्तमम्|

Mahabharata - Bhishma Parva - Chapter Text
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्|| १ 6-1-0(38622)
जनमेजय उवाच|
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः
पार्थिवाश्च महात्मानो नानादेशसमागताः|| १ 6-1-1(38623)
वैशम्पायन उवाच
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः|
कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते|| २ 6-1-2(38624)
तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः|
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः|| ३ 6-1-3(38625)
वेदाध्ययनसंपन्नाः सर्वे युद्दाभिनन्दिनः|
आशंसन्तो जयं युद्धे बलेनाभिमुखा रणे|| ४ 6-1-4(38626)
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीं|
प्राङ्मुखाः पश्चिमे भागे न्यवशन्त ससैनिकाः ५ 6-1-5(38627)
स्यमन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः|
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः|| ६ 6-1-6(38628)
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता|
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता|| ७ 6-1-7(38629)
यावत्तपति सुर्यो हि जम्बुद्वीपस्य मण्डलं|
तावदेव समावृत्तं बलं पार्थिवसत्तम|| ८ 6-1-8(38630)
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥ 6-1-9(38631)
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।
व्यादिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥ 6-1-10(38632)
संज्ञाय विविधास्तात तेषां चक्रे युधिष्ठिरः।
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥ 6-1-11(38633)
अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च ।
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥ 6-1-12(38634)
दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः ।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम् ॥ 6-1-13(38635)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः ॥ 6-1-14(38636)
दृष्ट्वा दुर्योधनं हृष्टाः पाञ्चाला युद्धनन्दिनः ।
दध्मुः प्रीता महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥ 6-1-15(38637)
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः ।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥ 6-1-16(38638)
स्वयोधान्हर्षयन्तौ च वासुदेवधनञ्जयौ ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥ 6-1-17(38639)
पाञ्चजन्यस्य शङ्खस्य देवदत्तस्य चोभयोः ।
श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥ 6-1-18(38640)
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।
त्रयेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम् ॥ 6-1-19(38641)
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन।
अस्तं गत इवादित्यः सैन्येन रजसा वृतः ॥ 6-1-20(38642)
सवर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान्।
व्युक्षन्सर्वाणि सैन्यानि तदद्भुतमिवाभवत् ॥ 6-1-21(38643)
वायुस्ततः प्रादूरभून्नीचैः शर्करकर्षणः ।
विनिघ्नंस्तान्यनीकानि शतशोऽथ सहस्रशः ॥ 6-1-22(38644)
उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम् ।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥ 6-1-23(38645)
तयोस्तु सेनयोरासीदद्भुतः स तु संगमः ।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥ 6-1-24(38646)
शून्याऽऽसीत्पृथिवी सर्वा वृद्धबालावशेषिता।
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता।
तेन सेनासमूहेन समानीतेन कौरवैः ॥ 6-1-25(38647)
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः।
धर्मान्संस्थापयामासुर्युद्धानां भरतर्षभ ॥ 6-1-26(38648)
निवृत्ते विहिते युद्धे स्यात्प्रीतिर्नः परस्परम् ।
यथापरं यथायोगं न च स्यात्कस्यचित्पुनः ॥ 6-1-27(38649)
वाचा युद्धे प्रवृत्तानां वाचैव प्रतियोधनम् ।
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन ॥ 6-1-28(38650)
रथी च रथिना योध्यो गजेन गजधूर्गतः ।
अश्वेनाश्वी पदातिश्च पादातेनैव भारत ॥ 6-1-29(38651)
यथायोगं यथाकामं यथोत्साहं यथाबलम् ।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥ 6-1-30(38652)
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा ।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन ॥ 6-1-31(38653)
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥ 6-1-32(38654)
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥ 6-1-33(38655)
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।
हृष्टरूपाः समुनसो बभूवुः सहसैनिकाः ॥ ॥ 6-1-34(38656)
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि प्रथमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-1-5 6-1-6 6-1-11 तव्यः इति झo पाठः तत्पाठे एवमिति। एवंवेदी विद्वान् इति अन्यैः पाण्डवेयो ज्ञातव्य इत्येतदर्थमित्यर्थः ॥ 6-1-19 असीद्त अवसन्नमभूत् ॥ 6-1-23 सागरक्षुभितोपमे क्षुभितसागरोपमे ॥ 6-1-27 धर्मसंस्थापनमेवाह यथापरमिति। यथायोगं तुल्ययोर्योगस्यानतिक्रमणाम्। यथा येन प्रकारेण अपरं अनुत्कृष्टं अन्याय्यमित्यर्थः । तथा न कस्यचित्तुल्ययोगातिक्रमः स्याद्ति भावः ॥ 6-1-29 गजधूर्गतः गजस्कन्धगतः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|